श्रीपञ्चमुखहनुमत् हृदयम्
श्रीगणेशाय नमः ॥
॥ श्रीसीतारामचन्द्राभ्यां नमः ॥
ॐ अस्य श्रीपञ्चवक्त्र हनुमत् हृदयस्तोत्रमन्त्रस्य भगवान् श्रीरामचन्द्र ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीपञ्चवक्त्र हनुमान् देवता । ॐ बीजम् । रुद्रमूर्तये इति शक्तिः । स्वाहा कीलकम् ।
श्रीपञ्चवक्त्र हनुमद्देवता प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादि न्यासः ॥
ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ॐ ह्रूं वायुपुत्राय मध्यमाभ्यां नमः । ॐ ह्रैं अग्निगर्भाय अनामिकाभ्यां नमः ।
ॐ ह्रौं रामदूताय कनिष्ठिकाभ्यां नमः । ॐ ह्रः पञ्चवक्त्रहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥
ॐ ह्रां अञ्जनासुताय हृदयाय नमः । ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा ।
ॐ ह्रूं वायुपुत्राय शिखायै वषट् । ॐ ह्रैं अग्निगर्भाय कवचाय हुम् ।
ॐ ह्रौं रामदूताय नेत्रत्रयाय वौषट् । ॐ ह्रः पञ्चवक्त्रहनुमते अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोमिति दिग्बन्धः ॥
अथ ध्यानम् ।
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं देवेन्द्रप्रमुखैः प्रशस्तयशसं देदीप्यमानं ऋचा ॥
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥
इति ध्यानम् ॥
ॐ नमो वायुपुत्राय पञ्चवक्त्राय ते नमः । नमोऽस्तु दीर्घबालाय राक्षसान्तकराय च ॥ १॥
वज्रदेह नमस्तुभ्यं शताननमदापह । सीतासन्तोषकरण नमो राघवकिङ्कर ॥ २॥
सृष्टिप्रवर्तक नमो महास्थित नमो नमः । कलाकाष्ठस्वरूपाय माससंवत्सरात्मक ॥ ३॥
नमस्ते ब्रह्मरूपाय शिवरूपाय ते नमः । नमो विष्णुस्वरूपाय सूर्यरूपाय ते नमः ॥ ४॥
नमो वह्निस्वरूपाय नमो गगनचारिणे । सर्वरम्भावनचर अशोकवननाशक ॥ ५॥
नमो कैलासनिलय मलयाचल संश्रय । नमो रावणनाशाय इन्द्रजिद्वधकारिणे ॥ ६॥
महादेवात्मक नमो नमो वायुतनूद्भव । नमः सुग्रीवसचिव सीतासन्तोषकारण ॥ ७॥
समुद्रोल्लङ्घन नमो सौमित्रेः प्राणदायक । महावीर नमस्तुभ्यं दीर्घबाहो नमोनमः ॥ ८॥
दीर्घबाल नमस्तुभ्यं वज्रदेह नमो नमः । छायाग्रहहर नमो वरसौम्यमुखेक्षण ॥ ९॥
सर्वदेवसुसंसेव्य मुनिसङ्घनमस्कृत । अर्जुनध्वजसंवास कृष्णार्जुनसुपूजित ॥ १०॥
धर्मार्थकाममोक्षाख्य पुरुषार्थप्रवर्तक । ब्रह्मास्त्रबन्द्य भगवन् आहतासुरनायक ॥ ११॥
भक्तकल्पमहाभुज भूतबेतालनाशक । दुष्टग्रहहरानन्त वासुदेव नमोऽस्तुते ॥ १२॥
श्रीरामकार्ये चतुर पार्वतीगर्भसम्भव । नमः पम्पावनचर ऋष्यमूककृतालय ॥ १३॥
धान्यमालीशापहर कालनेमिनिबर्हण । सुवर्चलाप्राणनाथ रामचन्द्रपरायण ॥ १४॥
नमो वर्गस्वरूपाय वर्णनीयगुणोदय । वरिष्ठाय नमस्तुभ्यं वेदरूप नमो नमः ।
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमाम्यहम् ॥ १५॥
इति ते कथितं देवि हृदयं श्रीहनूमतः । सर्वसम्पत्करं पुण्यं सर्वसौख्यविवर्धनम् ॥ १६॥
दुष्टभूतग्रहहरं क्षयापस्मारनाशनम् ॥ १७॥
यस्त्वात्मनियमो भक्त्या वायुसूनोः सुमङ्गलम् । हृदयं पठते नित्यं स ब्रह्मसदृशो भवेत् ॥ १८॥
अजप्तं हृदयं य इमं मन्त्रं जपति मानवः । स दुःखं शीघ्रमाप्नोति मन्त्रसिद्धिर्न जायते ॥ १९॥
सत्यं सत्यं पुनः सत्यं मन्त्रसिद्धिकरं परम् । इत्थं च कथितं पूर्वं साम्बेन स्वप्रियां प्रति ॥ २०॥
महर्षेर्गौतमात्पूर्वं मया प्राप्तमिदं मुने । तन्मया प्रहितं सर्वं शिष्यवात्सल्यकारणात् ॥ २१॥
इति श्रीपराशरसंहितान्तर्गते श्रीपराशरमैत्रेयसंवादे श्रीपञ्चमुखहनुमत् हृदयस्तोत्रं सम्पूर्णम् ॥
(श्रीपञ्चवक्त्रहनुमत् हृदयस्तोत्रम्)