॥ श्री राम जय राम जय जय राम ॥ॐ भक्ति, शक्ति और विश्वास

हनुमत्कृतं श्रीरामस्तोत्रम् (Hanumatkritam Shri Ram Stotram)

हनुमत्कृतं श्रीरामस्तोत्रम् कोन्वीश ते पादरसोबभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते ॥ १॥ त्वमेव साक्षात्परमः स्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः । त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः ॥ २॥ समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च…

हनुमत्कृतं श्रीरामस्तोत्रम् (Hanumatkritam Shri Ram Stotram)

हनुमत्कृतं श्रीरामस्तोत्रम्

कोन्वीश ते पादरसोबभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।

तथाऽपि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणादृते ॥ १॥

त्वमेव साक्षात्परमः स्वतन्त्रस्त्वमेव साक्षादखिलोरुशक्तिः ।

त्वमेव चागण्यगुणार्णवः सदा रमाविरिञ्चादिभिरप्यशेषैः ॥ २॥

समेत्य सर्वेऽपि सदा वदन्तोऽप्यनन्तकालाच्च न वै समाप्नुयुः ।

गुणांस्त्वदीयान् परिपूर्णसौख्यज्ञानात्मकस्त्वं हि सदाऽतिशुद्धः ॥ ३॥

यस्ते कथासेवक एव सर्वदा सदा रतिस्त्वय्यचलैकभक्तिः ।

स जीवमानो न परः कथञ्चित् तज्जीवनं मेऽस्त्वधिकं समस्तात् ॥ ४॥

प्रवर्धतां भक्तिरलं क्षणे क्षणे त्वयीश मे ह्रासविवर्जिता सदा ।

अनुग्रहस्ते मयि चैवमेव निरूपधौ तौ मम सर्वकामः ॥ ५॥

इतीरितस्तस्य ददौ स तद्द्वयं पदं विधातुः सकलैश्च शोभनम् ।

समाश्लिषच्चैनमथार्द्रया धिया यथोचितं सर्वजनानपूजयत् ॥ ६॥

॥ इति श्रीहनुमत्कृतं श्रीरामस्तोत्रं सम्पूर्णम् ॥

भक्तों के विचार (0)

अभी कोई टिप्पणी नहीं है। पहला विचार आप साझा करें।

अपना विचार लिखें