Site icon

श्री आञ्जनेयमङ्गलाष्टकम् (Shri Aanjaney Mangalashtakam)

श्री आञ्जनेयमङ्गलाष्टकम्

कपिश्रेष्ठाय शूराय सुग्रीवप्रियमन्त्रिणे । जानकीशोकनाशाय आञ्जनेयाय मङ्गलम् ॥ १॥

मनोवेगाय उग्राय कालनेमिविदारिणे । लक्ष्मणप्राणदात्रे च आञ्जनेयाय मङ्गलम् ॥ २॥

महाबलाय शान्ताय दुर्दण्डीबन्धमोचन । मैरावणविनाशाय आञ्जनेयाय मङ्गलम् ॥ ३॥

पर्वतायुधहस्ताय राक्षःकुलविनाशिने । श्रीरामपादभक्ताय आञ्जनेयाय मङ्गलम् ॥ ४॥

विरक्ताय सुशीलाय रुद्रमूर्तिस्वरूपिणे । ऋषिभिस्सेवितायास्तु आञ्जनेयाय मङ्गलम् ॥ ५॥

दीर्घबालाय कालाय लङ्कापुरविदारिणे । लङ्कीणीदर्पनाशाय आञ्जनेयाय मङ्गलम् ॥ ६॥

नमस्तेऽस्तु ब्रह्मचारिन् नमस्ते वायुनन्दन । नमस्ते गानलोलाय आञ्जनेयाय मङ्गलम् ॥ ७॥

प्रभवाय सुरेशाय शुभदाय शुभात्मने । वायुपुत्राय धीराय आञ्जनेयाय मङ्गलम् ॥ ८॥

आञ्जनेयाष्टकमिदं यः पठेत्सततं नरः । सिद्ध्यन्ति सर्वकार्याणि सर्वशत्रुविनाशनम् ॥ ९॥

इति श्रीआञ्जनेयमङ्गलाष्टकं सम्पूर्णम् ।

Exit mobile version